|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.60. अध्यायः 060
Mahabharata - Shalya Parva - Chapter Topics
भीमसेनेन दुर्योधनापनयानुस्मारणपूर्वकं वामपादेन तच्छिरस्ताडनम्॥ 1 ॥ युधिष्ठिरेण दुर्योधनसमाश्वासनम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-60-0x(5234)(63542)
तं पातितं ततो दृष्ट्वा महासालमिवोद्गतम्।
प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः॥ 9-60-1(63543)
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम्।
ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः॥ 9-60-2(63544)
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्।
पातितं कौरवेन्द्रं तमुपगम्येदमब्रवीत्॥ 9-60-3(63545)
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम्।
यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते।
तस्यावहासस्य फलमद्य त्वं समवाप्नुहि॥ 9-60-4(63546)
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्।
शिरश्च राजसिंहस्य पादेन समलोडयत्॥ 9-60-5(63547)
तथैव क्रोधसंरक्तो भीमः परबलार्दनः।
पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप॥ 9-60-6(63548)
येऽस्मान्पुरा प्रनृत्यन्ति मूढा गौरिति गौरिति।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति॥ 9-60-7(63549)
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना।
स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्॥ 9-60-8(63550)
सोऽवाप्य वैरस्य चिरस्य पारं
वृकोदरः प्राह शनैः प्रहस्य।
युधिष्ठिरं केशवसृञ्जयांश्च
धनञ्जयं माद्रवतीसुतौ च॥ 9-60-9(63551)
रजस्वला द्रौपदीमानयन्ते
ये चाप्यकुर्वन्त सदस्यवस्त्राम्। 9-60-10cतान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान्
रणे हतांस्तपसा याज्ञसेन्याः॥ 9-60-10(63552)
ये नः पुरा षण्ढतिलानवोचन्
क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः।
ते नो हताः सगणाः सानुबन्धाः
कामं स्वर्गं नरकं वा व्रजामः॥ 9-60-11(63553)
पुनश्च राज्ञः पतितस्य भूमौ
स तां गदां स्कन्धगतां प्रगृह्य।
वामेन पादेन शिरः प्रमृद्य
दुर्योधनं नैकृतिकेत्यवोचत्॥ 9-60-12(63554)
हृष्टेन राजन्कुरुपार्थिवस्य
क्षुद्रात्मना भीमसेनेन पादम्।
दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्
धर्मात्मानः सोमकानां प्रबर्हाः॥ 9-60-13(63555)
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्।
नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्॥ 9-60-14(63556)
गतोऽसि वैरस्यानृण्यं प्रतिज्ञा पूरिता त्वया।
शुभेनाथाशुभेनैव कर्मणा विरमाधुना॥ 9-60-15(63557)
मा शिरोऽस्य पदाऽमर्दीर्मा धर्मस्तेऽतिगो भवेत्।
राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ॥ 9-60-16(63558)
एकादशचमूनाथं कुरूणामधिपं तथा।
मास्प्राक्षीर्भीम पादेन राजानं ज्ञातिमेव च॥ 9-60-17(63559)
हतबन्धुर्हतामात्यो भ्रष्टसैन्यो हतो मृधे।
सर्वाकारेण शोच्योऽयं नावहास्योऽयमीश्वरः॥ 9-60-18(63560)
विध्वस्तोऽयं हतामात्यो हतबन्धुर्हतात्मजः।
उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया॥ 9-60-19(63561)
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः।
स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि॥ 9-60-20(63562)
इत्युक्त्वा भीमसेनं तु साश्रुकण्ठो युधिष्ठिरः।
उपसृत्याब्रवीद्दीनो दुर्योधनमरिन्दमम्॥ 9-60-21(63563)
तात मन्युर्न ते कार्यो नात्मा शोच्यस्त्वया तथा।
नूनं पूर्वकृतं कर्म सुघोरमनुभूयते॥ 9-60-22(63564)
धात्रोपदिष्टं विषमं नूनं फलमसंस्कृतम्।
यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम॥ 9-60-23(63565)
आत्मनो ह्यपराधेन महद्व्यसनमीहशम्।
प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत॥ 9-60-24(63566)
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा।
पुत्रान्पौत्रांस्तथा चान्यांस्ततोसि निधनं गतः॥ 9-60-25(63567)
तवापराधादस्माभिर्भ्रातरस्ते निपातिताः।
निहता ज्ञातयश्चापि दिष्टं मन्ये दुरत्ययम्॥ 9-60-26(63568)
[आत्मा न शोचनीयस्ते श्लाघ्यो मृत्युस्तवानघ।
वयमेवाधुना शोच्याः सर्वावस्थासु कौरव॥ 9-60-27(63569)
कृपणं वर्तयिष्यामस्तैर्हीना बन्धुभिः प्रियैः।
भ्रातॄणां चैव पुत्राणां तथा वै शोकविह्वलाः॥ 9-60-28(63570)
कथं द्रक्ष्यामि विधवा वधूः शोकपरिप्लुताः।
त्वमेकः सुस्थितो राजन्स्वर्गे ते निलयो ध्रुवः।
वयं नरकसंज्ञं वै दुःखं प्राप्स्याम दारुणम्॥] 9-60-29(63571)
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः।
गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः॥ 9-60-30(63572)
सञ्जय उवाच। 9-60-31x(5235)
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः।
विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः॥ ॥ 9-60-31(63573)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि षष्टितमोऽध्यायः॥ 60 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|